हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

Srimad Bhagavad Gita – श्रीमद्भगवद्गीता  
 स्तोत्रम् - Stotras Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

Sri Radha Stotram (Uddhava Krutam) – श्री राधा स्तोत्रम् (उद्धव कृतम्)


वन्दे राधापदाम्भोजं ब्रह्मादिसुरविन्दतम् ।
यत्कीर्तिः कीर्तनेनैव पुनाति भुवनत्रयम् ॥ १ ॥

नमो गोकुलवासिन्यै राधिकायै नमो नमः ।
शतशृङ्गनिवासिन्यै चन्द्रावत्यै नमो नमः ॥ २ ॥

तुलसीवनवासिन्य वृन्दारण्यै नमो नमः ।
रासमण्डलवासिन्यै रासेश्वर्यै नमो नमः ॥ ३ ॥

विरजातीरवासिन्यै वृन्दायै च नमो नमः ।
वृन्दावनविलासिन्यै कृष्णायै च नमो नमः ॥ ४ ॥

नमः कृष्णप्रियायै च शान्तायै च नमो नमः ।
कृष्णवक्षःस्थितायै च तत्प्रियायै नमो नमः ॥ ५ ॥

नमो वैकुण्ठवासिन्यै महालक्ष्म्यै नमो नमः ।
विद्याधिष्ठातृदेव्यै च सरस्वत्यै नमो नमः ॥ ६ ॥

सर्वैश्वर्याधिदेव्यै च कमलायै नमो नमः ।
पद्मनाभप्रियायै च पद्मायै च नमो नमः ॥ ७ ॥

महाविष्णोश्च मात्रे च पराद्यायै नमो नमः ।
नमः सिन्धुसुतायै च मर्त्यलक्ष्म्यै नमो नमः ॥ ८ ॥

नारायणप्रियायै च नारायण्यै नमो नमः ।
नमोऽस्तु विष्णुमायायै वैष्णव्यै च नमो नमः ॥ ९ ॥

महामायास्वरूपायै सम्पदायै नमो नमः ।
नमः कल्याणरूपिण्यै शुभायै च नमो नमः ॥ १० ॥

मात्रे चतुर्णां वेदानां सावित्र्यै च नमो नमः ।
नमोऽस्तु बुद्धिरूपायै ज्ञानदायै नमो नमः ॥ ११ ॥

नमो दुर्गविनाशिन्यै दुर्गादेव्यै नमो नमः ।
तेजःसु सर्वदेवानां पुरा कृतयुगे मुदा ॥ १२ ॥

अधिष्ठानकृतायै च प्रकृत्यै च नमो नमः ।
नमस्त्रिपुरहारिण्यै त्रिपुरायै नमो नमः ॥ १३ ॥

सुन्दरीषु च रम्यायै निर्गुणायै नमो नमः ।
नमो निद्रास्वरूपायै निर्गुणायै नमो नमः ॥ १४ ॥

नमो दक्षसुतायै च नमः सत्यै नमो नमः ।
नमः शैलसुतायै च पार्वत्यै च नमो नमः ॥ १५ ॥

नमो नमस्तपस्विन्यै ह्युमायै च नमो नमः ।
निराहारस्वरूपायै ह्यपर्णायै नमो नमः ॥ १६ ॥

गौरीलौकविलासिन्यै नमो गौर्यै नमो नमः ।
नमः कैलासवासिन्यै माहेश्वर्यैः नमो नमः ॥ १७ ॥

निद्रायै च दयायै च श्रद्धायै च नमो नमः ।
नमो धृत्यै क्षमायै च लज्जायै च नमो नमः ॥ १८ ॥

तृष्णायै क्षुत्स्वरूपायै स्थितिकर्त्र्यै नमो नमः ।
नमः संहाररूपिण्यै महामार्यै नमो नमः ॥ १९ ॥

भयायै चाभयायै च मुक्तिदायै नमो नमः ।
नमः स्वधायै स्वाहायै शान्त्यै कान्त्यै नमो नमः ॥ २० ॥

नमस्तुष्ट्यै च पुष्ट्यै च दयायै च नमो नमः ।
नमो निद्रास्वरूपायै श्रद्धायै च नमो नमः ॥ २१ ॥

क्षुत्पिपासास्वरूपायै लज्जायै च नमो नमः ।
नमो धृत्यै क्षमायै च चेतनायै नमो नमः ॥ २२ ॥

सर्वशक्तिस्वरूपिण्यै सर्वमात्रे नमो नमः ।
अग्नौ दाहस्वरूपायै भद्रायै च नमो नमः ॥ २३ ॥

शोभायै पूर्णचन्द्रे च शरत्पद्मे नमो नमः ।
नास्ति भेदो यथा देवि दुग्धधावल्ययोः सदा ॥ २४ ॥

यथैव गन्धभूम्योश्च यथैव जलशैत्ययौः ।
यथैव शब्दनभसोर्ज्योतिः सूर्यकयोर्यथा ॥ २५ ॥

लोके वेदे पुराणे च राधामाधवयोस्तथा ।
चेतनं कुरु कल्याणि देहि मामुत्तरं सति ॥ २६ ॥

इत्युक्त्वा चोद्धवस्तत्र प्रणनाम पुनः पुनः ।
इत्युद्धवकृतं स्तोत्रं यः पठेद्भक्तिपूर्वकम् ॥ २७ ॥

इह लोके सुखं भुक्त्वा यात्यन्ते हरिमन्दिरम् ।
न भवेद्बन्धुविच्छेदो रोगः शोकः सुदारुणः ॥ २८ ॥

प्रोषिता स्त्री लभेत्कान्तं भार्याभेदी लभेत् प्रियाम् ।
अपुत्रो लभते पुत्रान्निर्धनो लभते धनम् ॥ २९ ॥

निर्भूमिर्लभते भूमिं प्रजाहीनो लभेत् प्रजाम् ।
रोगाद्विमुच्यते रोगी बद्धो मुच्येत बन्धनात् ॥ ३० ॥

भयान्मुच्येत भीतस्तु मुच्येताऽऽपन्न आपदः ।
अस्पष्टकीर्तिः सुयशा मूर्खो भवति पण्डितः ॥ ३१ ॥

इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे द्विनवतितमोऽध्याये उद्धवकृत श्री राधा स्तोत्रम् ॥


Sri Krishna Stotras – श्री कृष्ण स्तोत्राणि

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.